शुचिः

सुधाव्याख्या

उत्तमयुवप्रकृतिकत्वेन जुगुप्सारहितत्वाच्छुचिः । शोचन्त्यनेन वा । ‘इगुपधात्कित्' (उ० ४.१२०) इतीन् । ‘शुचिः शुद्धे सितेऽनले । ग्रीष्माषाढानुपहतेषुपधाशुद्धमन्त्रिणि । शृङ्गारे च' इति हेमचन्द्रः ।