भ्रूकुंसः

सुधाव्याख्या

भ्रकुंस इति । यः पुरुषः स्रवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । पटपुट-' इति दण्डकोक्त 'कुसि’ धातोश्चुरादिण्यन्तात् 'एरच्' (३.३.५६) भ्रुवोर्भ्रुवा वा कुसो भाषणमस्य । भ्रुवा कंसयति वा । अच् (३.१.१३४) । इको हस्वोऽड्यो गालवस्य’ (६.३.६१) इति सूत्रे इयङुवङ्भाविनां न' (वा०) इति निषेधोत्तरं पठितस्य अभ्रुकुंसादीनाम्' इति वार्तिकस्य हस्वनिषेधपर्युदासपरतया, अकारादेशपरतया च व्याख्यानद्वयाद्रूपत्रयम् । पृषोदरादित्वात् (६.३.१०९) ऋवर्णवानपि । भ्रकुंस भ्रुकुंश्च भ्रूकुंसश्च भृकुंसवत्' इति शब्दार्णवः ।