तौर्यत्रिकम्

सुधाव्याख्या

तौर्यति । नृत्यगीतवाद्यं तौर्यत्रिकम् । तुर त्वरणे (जु० प० से०) । 'ऋहलोर्यत्' (३.१.१२४) । गुणं बाधित्वा बाहुलकात् 'हलि च (८.२.७७) इति दीर्घः । तूर्यं मुरजादिः । तत्र भवं तौर्यं शब्दः । त्रयोंऽशा यस्य त्रिकम् । ‘संख्याया अतिशदन्तायाः कन् (५.१.२२) । ‘संख्यायाः संज्ञासङ्घ (५.१.५८) इति वा । ‘तौर्योपलक्षितं त्रिकम्' इति विग्रहः


प्रक्रिया

धातुः - तुरँ त्वरणे


तुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुर् + ण्यत् - ऋहलोर्ण्यत्‌ 3.1.124
तुर् + य - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तूर्य - हलि च 8.2.77
तूर्य + अण् - तत्र भवः 4.3.53
तूर्य + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तूर्य् + अ - यस्येति च 6.4.148
तौर्य् + अ - तद्धितेष्वचामादेः 7.2.117
त्रि + जस् + कन् - संख्याया अतिशदन्तायाः कन् 5.1.22
त्रि + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
त्रि + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तौर्य + आम् + त्रिक + सु - षष्ठी 2.2.8
तौर्य + त्रिक - सुपो धातुप्रातिपदिकयोः 2.4.71
तौर्यत्रिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तौर्यत्रिक + अम् - अतोऽम् 7.1.24
तौर्यत्रिकम् - अमि पूर्वः 6.1.107