पुराणम्

सुधाव्याख्या

पुरा भवम् । 'सायंचिरम्-’ (४.३.२३) । इत ट्युट्युलौ । 'पूर्वकालैक-’ (२.१.४९) इति सूत्रे निपातनात्तुडभावः । यद्वा पुरापि नवं पुराणम् । पुराणप्रोक्तेषु (४,३.१०५) इति सूत्रे निपातितम् । ‘यद्वा पुरा अतीता गतावर्थावणति । ‘अण शब्दे’ (भ्वा० प० से०) । पचाद्यच् । ‘पुराणं पञ्चलक्षणे’ । पणे पुंसि, त्रिषु प्रत्ने पुरा भवम् । 'सायंचिरम्-’ (४.३.२३) । इत ट्युट्युलौ । 'पूर्वकालैक-’ (२.१.४९) इति सूत्रे निपातनात्तुडभावः । यद्वा पुरापि नवं पुराणम् । पुराणप्रोक्तेषु (४,३.१०५) इति सूत्रे निपातितम् । ‘यद्वा पुरा अतीता गतावर्थावणति । ‘अण शब्दे’ (भ्वा० प० से०) । पचाद्यच् । ‘पुराणं पञ्चलक्षणे’ । पणे पुंसि, त्रिषु प्रत्ने ।