आख्यायिका

सुधाव्याख्या

आचष्टे । 'चक्षिङः ख्याञ् (२.४.५४) । ण्वुल् (३.१.१३३) ॥


प्रक्रिया

धातुः - चक्षिङ् व्यक्तायां वाचि


चक्ष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + चक्ष् + ण्वुल् - ण्वुल्तृचौ 3.1.133
आ + चक्ष् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आ + ख्याञ् + वु - चक्षिङः ख्याञ्‌ 2.4.54
आ + ख्या + अक - युवोरनाकौ 7.1.1
आ + ख्या + युक् + अक - आतो युक् चिण्कृतोः 7.3.33
आ + ख्या + य् + अक - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आख्यायक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
आख्यायक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आख्यायका - अकः सवर्णे दीर्घः 6.1.101
आख्यायका सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आख्यायका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आख्यायका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
आख्यायिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44