दण्डनीतिः

सुधाव्याख्या

दम्यतेऽनेन । 'दमु उपशमे' (दि० प० से०) । ञमन्ताड्डः (उ० १.११४) । दण्डो नीयते बोध्यतेऽनया दण्डनीतिः । क्तिन् (३.३.९४) । यद्वा दण्डं लयति दण्ड्यान्प्रति प्रापयति । क्तिच् (३.३.१७४) । आन्वीक्षिकीसाहचर्यात्स्त्रीत्वम् । (१) अर्यते गम्यते । ऋ गतौ (भ्वा० प० अ०) । 'उषिकुषि-' (उ० २.३) इति थन् । अर्थस्य भूम्यादेः शास्त्रम् ।