आन्वीक्षिकी

सुधाव्याख्या

अनु श्रवणोत्तरमीक्षणं परीक्षणम् – अन्वीक्षा । सा प्रयोजनमस्याः , ‘प्रयोजनम्’ (५.१.१०९) इति ठक् ।


प्रक्रिया

अन्वीक्षा + सु + ठञ् - प्रयोजनम् 5.1.109
अन्वीक्षा + ठञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
अन्वीक्षा + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अन्वीक्षा + इक - ठस्येकः 7.3.50
अन्वीक्ष् + इक - यस्येति च 6.4.148
आन्वीक्षिक - तद्धितेष्वचामादेः 7.2.117
आन्विक्षिक + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
आन्वीक्षिक + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आन्वीक्षिक् + ई - यस्येति च 6.4.148
आन्वीक्षिकी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आन्वीक्षिकी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आन्वीक्षिकी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68