मर्मरः

सुधाव्याख्या

अथेति । वस्त्राणां पर्णानां च स्वनिते मर्मरः । शब्दानुकरणमिति स्वामी । 'मृङ् प्राणत्यागे' (तु० आ० अ०) । कृदादयश्च (उ० ५.४१) इत्यरन् मुगागमो गुणश्च – इत्यन्ये । मर्म राति वा । कः (३.२.३) । 'मर्मरो वस्त्रभेदे च शुष्कपर्णध्वनौ तथा । पुंसि स्त्रियां पुनः प्रोक्ता मर्मरी पीतदारुणि’ ॥