वाक्यम्

सुधाव्याख्या

तिडन्तानां चयः ‘पचति पश्य' 'पचति भवति’ पाको भवतीत्यर्थः । सुबन्तानां चयः । प्रकृतिसिद्धमिदं हि महात्मनाम्' इत्यादि । 'भवति’ इत्यध्याहारस्य भाष्यकारमते आवश्यकत्वाभावात्स वाक्यम् । क्रियेत्यादि । वाशब्दः समुच्चये । कारकान्वितक्रियाबोधकम् 'घटमानय’ इत्यादि तिङ्सुपचयात्मकमपि वाक्यम्’ इत्यर्थः । केचित्तु-भाष्यकारमतेन प्रथमः पक्ष: 'एकतिङ् वाक्यम्’ (वा० २.१.१) इति वार्तिकाभिप्रायेणापरा–इत्याहुः । यत्तु-पूर्वं शब्दात्मकस्य वाक्यस्य लक्षणम् । क्रिया-' इत्यादि त्वर्थात्मकस्य-इत्याहुः । तत्तु वचोऽशब्दसंज्ञायाम्' (७.३.६७) इति कुत्वनिषेधक- सूत्रस्याननुगुणम् । ‘उच्यते’ इति वाक्यम् । वचेः (अ० प० अ०) ण्यत् (३.१.१२४) । ‘चजोः-'(७.३.५२) इति कुत्वं । शब्दसंज्ञायाम् । अन्यत्र तु वाच्यम् । ('वाक्यं तु कुत्सिते हीने वचनार्हे च वाच्यवत्'।