रुशती

सुधाव्याख्या

वाग्भेदा इति । उत्तरे वक्ष्यमाणा वाग्भेदा रुशत्यादयः सम्यगन्ताः । रुशतीति । ‘रुश हिंसायाम्' (तु० प० अ०) । तालव्यान्त स्तौदादिकः । शत्रन्तान्ङीप् । ‘आच्छीनद्योः’ (७.१.८०) इति नुमो विकल्पः । रुशती हिंस्रा । रुशञ् शब्दः । रुशद्वचनम् । मुकुटस्तु (उषती इति पाठे) ‘उष दाहे’ (भ्वा० प० से०) इत्यस्य शत्रन्तस्य उषती’ इति रूपमाह । तन्न । तस्माच्छपि (३.१.६८) पुगन्त-' (७.३.८६) इति गुणस्य ‘शप्श्यनोर्नित्यम्' इति नुमश्च प्रसङ्गात् ॥