संलापः

सुधाव्याख्या

संलाप इति । संलपनम् । घञ् (३.३.१८) ॥ मिथोऽन्योन्यं प्रति भाषणम् । आलापस्त्वेकेनापि क्रियते ।