आक्षारणा

सुधाव्याख्या

तत्रेति । ’क्षर संचलने’ (भ्वा० प० से०) । प्रयोजकण्यन्ताद्युच् (३.३.१०७) । ल्युटि (३.३.११५) ‘आक्षारणम्’ अपि । ‘क्षरणाक्षारणाक्रोशाः साभिशापाभिमैथुनाः (इति दुर्गः) । क्लीबमपि । नीचमाक्षारणं यः स आक्रोशो मैथुनं प्रति’ इति शब्दार्णवः ॥ परस्त्रीनिमित्तं पुंसः, परपुरुषनिमित्तं स्त्रियाश्च आक्रोशनस्य एकम् ॥


प्रक्रिया

धातुः - क्षरँ सञ्चलने


क्षर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षर् + णिच् - हेतुमति च 3.1.26
क्षर् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
क्षर् + इ + ल्युट् - ल्युट् च 3.3.115
क्षार् + इ + ल्युट् - अत उपधायाः 7.2.116
क्षार् + ल्युट् - णेरनिटि 6.4.51
क्षार् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आङ् + क्षार् + अन - युवोरनाकौ 7.1.1
आ + क्षार् + अन - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आक्षारण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
आक्षारण + टाप् - अजाद्यतष्टाप्‌ 4.1.4
आक्षारण + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आक्षारणा - अकः सवर्णे दीर्घः 6.1.101
आक्षारणा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आक्षारणा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आक्षारणा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68