समज्ञा

सुधाव्याख्या

समैः सर्वैर्ज्ञायते । 'ज्ञान बोधने' (क्र्या० प० से०) । घञर्थे कः (वा० ३.३.५८) । (अन्यत्रापीति) डो वा ॥ 'समाज्ञा इति समाङ्पूर्वाज्ज्ञः (क्र्या० प० से०) । आतश्चोपसर्गे (३.३.१०६) इत्यङ् ॥ 'समज्या’ इति पाठे (समाङ्पूर्वात्) ‘अज गतौ' (भ्वा० प० से०) । ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् । 'क्यपि प्रतिषेधः’ (वा० २.४.१५६) इति न वीत्वम् ॥