कर्मेन्द्रियम्

सुधाव्याख्या

कर्मसाधकमिन्द्रियं कर्मेन्द्रियमुच्यते । पायति शोषयति तैलमिति पायुः। 'पै शोषणे’ (भ्वा० प० अ०) । 'कृवापाजि-' (उ० १.१) इत्यण् । ‘आतो युक् (७.३.३३) । ‘पायूपस्थे पाणिपादौ वाक्चेतीन्द्रियसंग्रहः । उत्सर्गानन्दनादानगत्यालापाश्च तत्क्रियाः’ इति कामन्दकीये ।