विषयी

सुधाव्याख्या

विसिन्वन्ति निबध्नन्तीन्द्रियाणि । षिञ् बन्धने (स्वा० उ० अ०) । पचाद्यच् (३.३.१३४) । ‘परिनिवि-'(८.३.१७०) इति षत्वम् । ‘विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः । शब्दादौ जनपदे च' इति हैमः।