आगूः

सुधाव्याख्या

आगमनम् । आगूः गमेः इत्यनुवर्तमाने 'भ्रमेश्च डू:’ (उ० २.६८) । डित्वाट्टिलोपः (६.४.१४३) । वधूशब्दवत् । यदा तु क्विपि (वा०३.३.१०८) गमः क्वौ’ (६.४.४०) इत्यन्तलोपे ‘ऊङ् च गमादीनाम्’ (वा० ६.४.४०) इत्यूकारादेशः । तदा ‘ओः सुपि' (६.४.८३) इति यणि अमि शसि च आग्वम्, आग्वः इति विशेषः । ‘गुरी उद्यमने’ (तु० अ० से०) । अस्मात् क्विपि (वा० ३.३.१०८) तु आगूः, आगुरौ, आगुरः, इति धूर्वत् ।