द्वापरः

सुधाव्याख्या

द्वौ परौ प्रकारौ यस्य । ‘सर्वनामसंख्ययोः -'(वा० २.२.३५) इति द्विशब्दस्य पूर्वनिपातः । पृषोदरादित्वात् (६.३.१०९) आत्वम् । (द्वापरं संशये युगे) ।