विचिकित्सा

सुधाव्याख्या

विचिकित्सेति । कित संशये (भ्वा० प० से०) । 'गुप्तिज्किद्भ्यः सन्’ (३.१.५) । ‘अ प्रत्ययात्' (३.३.१०२) विचिकित्सा ।


प्रक्रिया

धातुः - कितँ निवासे रोगापनयने व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च


कित् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वि + कित् + सन् - गुप्तिज्किद्भ्यः सन् 3.1.5
वि + कित् + कित् + सन् - सन्यङोः 6.1.9
वि + कित् + कित् + स - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वि + किकित् + स - हलादिः शेषः 7.4.60
वि + चिकित्स - कुहोश्चुः 7.4.62
विचिकित्स + टाप् - अजाद्यतष्टाप्‌ 4.1.4
विचिकित्स + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7,तस्य लोपः 1.3.9
विचिकित्सा - अकः सवर्णे दीर्घः 6.1.101
विचिकित्सा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विचिकित्सा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विचिकित्सा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68