तर्कः

सुधाव्याख्या

अपूर्वोत्प्रेक्षणं तर्कणम् । ‘तर्क भाषार्थः । चुरादौ ‘पटपुट’ इति दण्डके पठितः । भावे घञ् (३.३.१८) कृन्तति, कृन्तते वा अच् (३.१.१३४) । घञौ (३.३.१९) । पृषोदरादित्वात् (६.३.१०९) वर्णविपर्ययः । ‘कर्को वितर्के काङ्क्षायामूहकर्मविशेषयोः’ इति हैमः ।