पक्षिणी

सुधाव्याख्या

आगामिवर्तमाने च ते अहनी च । इति कर्मधारये टच् (५.३.९१) । सरेफपाठे तु समासान्तविधेरनित्यताश्रयणीया । आगामिवर्तमाने अहनी युक्ते यस्यामिति बहुव्रीहिर्वा । पूर्वापरदिने पक्षाविव स्तो यस्याम् । ‘अत इनि-’ (५.२.११५) । निशीत्युपलक्षणम् । तेन पूर्वोतररात्रियुक्तदिनमपि पक्षिणीति हरदतादयः । ‘पक्षिणी पूर्णिमायां स्याद्विहण्यां शाकिनी भिदि । आगामिवर्तमानाहर्युक्तरात्रावपि स्त्रियाम् ।