शर्वरी

सुधाव्याख्या

शृणाति चेष्टाः । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । 'कॄशॄगॄवृञ्चतिभ्यः ष्वरच्' (उ० २.१२१) । षिद्गौरा- (४.१.४१) इति डीष् । ‘शर्वरी यामिनीस्त्रियोः’ प्रज्ञाद्याणि शार्वर्यपि । ‘शर्वरी शार्वरी शर्या’ इति शब्दार्णवः ॥