मध्याह्नः

सुधाव्याख्या

अह्नो मध्यम् ’संख्याविसाय-'(६.३.११०) इति ज्ञापकात्समासः । रात्राह्नाहाः पुंसि’ (२.४.२९) । मध्यं च तदहश्चेति वा । तिसृणां संध्यानां समाहारः । आबन्तो वा (वा० २.४.३०) इति पाक्षिकी क्लीबता, पक्षे त्रिसंध्यी ॥