प्राह्णः

सुधाव्याख्या

प्राह्णेति । अह:शब्दस्तदवयवे । प्रथमं च तदहश्च प्राह्णः । 'राजा-'(५.४.९१) इति टच् । 'अह्नोऽह्न:-' (५.४.८८) इत्यह्नादेश:। 'अह्नोऽदन्तात्' (८.४.७ ) इति णत्वम् ॥