संध्या

सुधाव्याख्या

संध्येति । सम्यग् ध्यायन्त्यस्याम् । 'ध्यै चिन्तायाम्' (भ्वा० प० अ०)। 'आतश्चोपसर्गे' (३.३.१०६) इत्यङ् । 'संध्या पितृप्रसूनद्यन्तरयोर्युगसंधिषु ॥*॥ निर्यकारोऽपि । संधीयतेऽनुसंधीयतेऽस्याम् । डुधाञः (जु० उ० अ०) अङ् (३.३. १०६) । 'संध्या पितृप्रसूः संधा' इति शब्दार्णवः ॥