मतल्लिका

सुधाव्याख्या

मतल्लिकादयो नियतलिङ्गाः अव्युत्पन्नाश्चेति प्राञ्चः । व्युत्पत्तिरपि सम्भवति । मतं मतिमलति । ‘अलं भूषणादौ' (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । क्वुन् (उ० २. ३२) वा । पृषोदरादित्वात् (६.३.१०९) अस्य ल: ।


प्रक्रिया

धातुः - अलँ भूषणपर्याप्तिवारणेषु


अल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मत + अम् + अल् + ण्वुल् - ण्वुल्तृचौ 3.1.133, उपपदमतिङ् 2.2.19
मत + अल् + ण्वुल् - सुपो धातुप्रातिपदिकयोः 2.4.71
मत + अल् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मत + अल् + अक - युवोरनाकौ 7.1.1
मतल्लिक - पृषोदरादीनि यथोपदिष्टम् 6.3.109
मतल्लिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
मतल्लिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7 तस्य लोपः 1.3.9
मतल्लिका - अकः सवर्णे दीर्घः 6.1.101
मतल्लिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मतल्लिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मतल्लिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68