समा

सुधाव्याख्या

‘षमष्टम अवैक्लव्ये' (भ्वा० प० से०) । समन्ति विक्लवं कुर्वन्ति सर्वम् । पचाद्यचि (३.११३४) टाप् (४.१.४) । बहुवचननिर्देशात्प्रायेणायं बहुवचनान्तः इति ध्वनयति । क्वचिद्वचनान्तरमपि । ‘समां समां विजायते’ (५.२.१२) इति सूत्रात् । ‘समायां समायाम् इति तत्र भाष्याच्च । संमान्ति सह वर्तन्ते ऋतवोऽस्यामिति वा । ‘मा माने’ (अ० प० अ०) । 'आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् । 'समां समाम्' (५.२.१२) इति निर्देशान्मलोपः । समा संवत्सरे स्त्रियाम् । ‘समा सर्वसाधुसमानेषु समं स्यादभिधेयवत्' ॥