पुष्पवत्

सुधाव्याख्या

पुष्प विकसने’ (दि० प० से०) । भावे घञ् (३.३.१८) । पुष्पो विकासः प्रकाशश्च । तद्वन्तौ । मतुप् (५.२९४) । एकयोक्त्या साधारणवचनेन । प्रत्येकं ‘पुष्पवान्' इति न प्रयोक्तव्यमिति भावः । अकारान्तोऽपि पुष्पवन्तशब्दः । अव रक्षणे' (भ्वा० प० से०) । 'जॄविशिभ्यां झच्' (उ० ३.१२६) इति बाहुलकादवतेरपि झच् । 'झोऽन्तः(७.१.३) । पुष्पस्यावन्तौ इति विग्रहे शकन्ध्वादिः (वा० ६.१.९४) । रविशशिनौ पुष्पवन्ताख्यौ इति नाममाला । ‘पुष्पवन्ताभ्याम्, पुष्पवन्तयोः’ इत्यादि । (पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ । ‘पुष्यन्दतौ च चन्द्रार्कवेकोक्त्या’ इति हैमतः पुष्पदन्तौ अपि बोध्यौ) ।।