भा

सुधाव्याख्या

भा दीप्तौ (अ० प० से०) । दृशिग्रहणात् (वा० ३.२.१०१) डः । टाप् (४.१.४) । ‘भा भुव्यलंकृतौ दीप्तौ स्त्रियां भाः किरणे द्युतौ’ इति नानार्थरत्नमाला । यद्वा क्विप् (३.२.१७८) । आबन्तत्वाभावान्न सुलोपादि. । भाः । विश्वपावत् ।