दिव् + ङस् + मणि + सु |
- उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 2.1.56 |
दिव् + मणि |
- सुपो धातुप्रातिपदिकयोः 2.4.71 |
दि + उत् + मणि |
- दिव उत् 6.1.131 |
दि + उ + मणि |
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9 |
द्युमणि |
- इको यणचि 6.1.77 |
द्युमणि + सु |
- स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2 |
द्युमणि + स् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
द्युमणिरु |
-ससजुषो रुः 8.2.66 |
द्युमणिर् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
द्युमणिः |
- खरवसानयोर्विसर्जनीयः 8.3.15 |