दाक्षायणी

सुधाव्याख्या

दक्षस्यापत्यानि । ‘वा नामधेयस्य’ (वा० १.१.७३) इति वृद्धसंज्ञायाम् 'उदीचां वृद्धादगोत्रात् (४.१.१५७) इति फिञ् । गौरादित्वात् (४.१.४१) डीष् । यत्तु—‘आसुरेरुपसंख्यानम्’ (वा० ४.१.१९) इत्यत्र केचिद् ‘आसुरिदाक्ष्योः’ इति - इति मुकुट आह । तन्न । भाष्ये दाक्षेरदर्शनात् । यदपि-गोत्रत्वमुपचर्य ‘गोत्रे कुञ्जादिभ्यश्चफञ्' (४.१.९८) इति च्फञि ‘जातेरस्त्रीविषयादयोपधात् (४.१.६३) इति ङीष्-इत्याह । तदपि न । कुञ्जादिगणेऽस्य पाठाभावात् । उक्तरीत्योपचारं विना निर्वाहाच्च । यत्तु-‘अत इन्’ (४.१.९५) । अनन्तरापत्येऽपि द्वैपायनवत् ‘यञिञोश्च (४.१.१०१) इति फक्-इति स्वाम्याह । तदपि न । अनन्तरापत्ये फकोऽदर्शनात् । द्वीपमयनमस्य द्वीपायनः । द्वीपायनस्यापत्यं द्वैपायनः । ऋष्यण् (४.१.११४) इति द्वैपायनशब्दव्युत्पत्तेर्दृष्टान्तासम्भवाच्च । यदपि-'इतो मनुष्यजातेः (४.१.६५) इत्यत्र इञः उपसंख्यानान्ङीष् । कौरव्यमाण्डूकाभ्यां च (४.१.१९) इति चकारादासुरायणीवत् फः इति । तदपि न । त्वदुक्तोपसंख्यानाप्रसिद्धेः । चकारस्यानुक्तसमुच्चयार्थत्वे मानाभावाच्च । यदपि दक्षमयते । ल्युः (३.१.१३४) । प्रज्ञायण् (५.४.३८) इत्याह मुकुटः । तदपि न । प्रज्ञप्राज्ञवद्रूपद्वयप्रसङ्गात् । अश्विन्याद्याः सप्तविंशतितारका दाक्षायण्य उच्यन्ते । (‘दाक्षायणी त्वपर्णायामश्विन्याद्युडुषु स्त्रियाम्') ।


प्रक्रिया

दक्ष + ङस् + फिञ् - उदीचां वृद्धादगोत्रात्‌ 4.1.157
दक्ष + फिञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
दक्ष + फ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दाक्ष + फ - तद्धितेष्वचामादेः 7.2.117
दाक्ष् + फ - यस्येति च 6.4.148
दाक्ष् + आयन् - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
दाक्षायण् - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
दाक्षायण् + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
दाक्षायण् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दाक्षायणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दाक्षायणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दाक्षायणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68