उडुः

सुधाव्याख्या

अवतीति-ऊः । क्विप् (३.२.१७८) । ज्वरत्वर-' (६.४.२०) इत्यूठौ । ‘ह्रस्वो नपुंसके-' (१.२.४७) इति ह्रस्वः । समासोत्तरम् 'इको ह्रस्वोऽड्यः-' इति वा ह्रस्वः । डयतेर्डु: डीङो मितद्रवादित्वात् (वा० ३.२.१८०) डुः । ‘उ च तड्डु च ' इति विग्रहः । स्त्रियां तु 'ऊश्चासौ डुश्च' इति ज्ञेयः । उडुः, उडू, उडवः, इत्यादि धेनुवत् । यद्वा 'उ संबुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् । उ प्रश्ने च इति हैमः । उ क्रोधं डयते, उना शम्भुना डीयते वा । मितद्रवादिभ्यः (३.२. १८०) इति डुः ।


प्रक्रिया

धातुः - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु


अव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अव् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
अव् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अव् - वेरपृक्तस्य 6.1.67
ऊट् - ज्वरत्वरश्रिव्यविमवामुपधायाश्च 6.4.20
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
- ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47
उ + सु + डु + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
उडु - सुपो धातुप्रातिपदिकयोः 2.4.71
उडु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उडु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उडु + रु - ससजुषो रुः 8.2.66
उडु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उडुः - खरवसानयोर्विसर्जनीयः 8.3.15