तारका

सुधाव्याख्या

ण्वुलि (३.१.१३३) तारका । 'तारका ज्योतिषि (वा० ७.३.४५) इतीत्वाभावः । अपिशब्दात्तारकापि वा स्त्रियाम् । स्त्रीत्वाभावे क्लीबत्वमुडुसाहचर्यात् । 'नक्षत्रे चाक्षिमध्ये च तारकं तारकापि च' इति शाश्वतः । ('तारको दैत्यभित्कर्णधारयोर्न द्वयोर्दृशि । कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु) ।।