ऋक्षम्

सुधाव्याख्या

ऋषति । ‘ऋषी गतौ' (तु० प० से०) । ‘स्नु व्रश्चिकृत्यृषिभ्यः कित्’ (उ० ३.६६) । इति सः । 'षढोः-' (८.२.४१) इति कः । ‘ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयो: । महीधरविशेषे च शोणके लक्ष्यवेधने’ इति हैमः ।