नक्षत्त्रम्

सुधाव्याख्या

न क्षदते हिनस्ति । ‘क्षद’ इति सौत्रो धातुर्हिंसार्थ आत्मनेपदी । ष्ट्रन् (उ० ४.१५९) । नभ्राण्नपाद् (६.३.७५) इति नञः प्रकृतिभावः । यत्तु क्षदतीति विग्रहप्रदर्शनं मुकुटेन कृतम् । तच्चिन्त्यम् । यद्वा ‘णक्ष गतौ’ (भ्वा० प० से०) । नक्षति । ‘अभिनक्षिकलिभ्योऽत्रन् (उ० ३.१०५) न क्षणोति वा । ‘क्षणु हिंसायाम् (त० उ० से०) । ष्ट्रन् (उ० ४.१५९) । बाहुलकाण्णलोपः । न क्षत्रं वा । देवत्वात्क्षत्रभिन्नत्वात् ।


प्रक्रिया

धातुः - क्षद इति सौत्रो धातुर्हिंसार्थ आत्मनेपदी ।


नञ् + क्षद + सु - नञ्‌ 2.2.6
न + क्षद् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
न + क्षद् - नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या 6.3.75
न + क्षद् + ष्ट्रन् - सर्वधातुभ्यः ष्ट्रन् (४.१५९) । उणादिसूत्रम् ।
न + क्षद् + ट्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6
न + क्षद् + त्र - निमित्तापाये नैमित्तिकस्याप्यपाय:
न + क्षत् + त्र - खरि च 8.4.55
नक्षत्त्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नक्षत्त्र + अम् - अतोऽम् 7.1.24
नक्षत्त्रम् - अमि पूर्वः 6.1.107