सम्भेदः

सुधाव्याख्या

सरित इति । अन्याः कौशिकीगण्डकी-चर्मण्वती-गोदावर्यादयः । समिति । सम्भिद्यन्ते मिलन्त्यत्र । भिदिर् विदारणे’ (रु० उ० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘सम्भेदः स्फुटने सङ्गे’ । सिन्ध्वोः सङ्गमः । एकम् नद्यादिसङ्गमस्य ।