नर्मदा

सुधाव्याख्या

नर्म ददाति द्यति वा । ‘डुदाञ् दाने' (जु० उ० अ०) । ‘दो अवखण्डने’ (दि० प० से०) वा । ‘आतोऽनुप-' (३.२.३) इति कः ॥ 'नर्मदः केलिसचिवे नर्मदा सरिदन्तरे’ इति विश्वमेदिन्यौ ।