स्रवन्ती

सुधाव्याख्या

स्रवति । “लटः शतृ-’ (३.२.१२४) । ‘उगितश्च' (४.१.६) इति ङीप् । ‘शप्रश्यनोः-' (७.१.८१) इति नुम् ।


प्रक्रिया

धातुः - स्रु गतौ


स्रु + शतृ - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
स्रु + अत् - लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्रो + अत् - सार्वधातुकार्धधातुकयोः 7.3.84
स्रव् + अत् - एचोऽयवायावः 6.1.78
स्रव + नुम् + त् - शप्श्यनोर्नित्यम् 7.1.81
स्रव + न् + त् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्रवन्त् + ङीप् - उगितश्च 4.1.6
स्रवन्त् + ई - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्रवन्ती + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्रवन्ती + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्रवन्ती - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68