उच्चैश्रवाः

सुधाव्याख्या

(हय इति) । उच्चैः श्रवसी यस्य । उच्चैः शृणोतीति वा । असुन् (उ० ४.१८९) । उच्चैर्महच् श्रवो यशो यस्येति वा ।।


प्रक्रिया

धातुः - श्रु श्रवणे


उच्चैस् + सु + श्रु + असुन् - अनेकमन्यपदार्थे 2.2.24, सर्वधातुभ्योऽसुन् (४.१८८) । उणादिसूत्रम् ।
उच्चैस् + श्रु + असुन् - सुपो धातुप्रातिपदिकयोः 2.4.71
उच्चै + श्रु + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उच्चै + श्रो + अस् - सार्वधातुकार्धधातुकयोः 7.3.84
उच्चैश्रवस् - एचोऽयवायावः 6.1.78
उच्चैश्रवास् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उच्चैश्रवास् सु - अत्वसन्तस्य चाधातोः 6.4.14
उच्चैश्रवास् स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उच्चैश्रवास् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
उच्चैश्रवारु - ससजुषो रुः 8.2.66
उच्चैश्रवार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उच्चैश्रवाः - खरवसानयोर्विसर्जनीयः 8.3.15