सुनासीरः

सुधाव्याख्या

णासृ शब्दे’ (भ्वा० आ० से०) । बाहुलकादीरन् (उ० ४.३०) । सुष्टु नासीरं सेनामुखम्, नासीरा अग्रेसरा वा यस्य द्विदन्त्यः ॥ शु इत्यव्ययस्य पूजार्थकत्वात् (शुनासीरः) तालव्यादिरपि । ‘शुनाशीरशीतशिवशङ्खाः' इति तालव्यादावूष्मविवेकः । शुनो वायुः, शीरः सूर्यः, तावस्य स्तः इति अर्शआद्यचि (५.२.१२७) अन्येषामपि-’ (६.३१३७) इति दीर्घः इति व्युत्पत्त्या (शुनाशीरः) द्वितालव्योऽपि ।।


प्रक्रिया

धातुः - णासृँ शब्दे


णास् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नास् - णो नः 6.1.65
नास् + ईरन् - कॄशॄपॄकटिपटिशौटिभ्य ईरन् (४.३०) उणादिः
नास् + ईर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सु + नासीर + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (२.२.२४) । वार्तिकम्
सुनासीर - सुपो धातुप्रातिपदिकयोः 2.4.71
सुनासीर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सुनासीर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुनासीर + रु - ससजुषो रुः 8.2.66
सुनासीर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुनासीरः - खरवसानयोर्विसर्जनीयः 8.3.15