वृद्धश्रवाः

सुधाव्याख्या

वृद्धेभ्यः शृणोति । 'श्रु श्रवणे’ (भ्वा० प० अ०) । असुन् (उ० ४.१६९) । वृद्धे श्रवसी यस्येति वा । वृद्धेषु पण्डितेषु श्रवो यशो यस्येति वा ।


प्रक्रिया

धातुः - श्रु श्रवणे


वृद्ध + भ्यस् + श्रु + असुन् - उपपदमतिङ् 2.2.19, सर्वधातुभ्योऽसुन् (४.१८८) । उणादिसूत्रम् ।
वृद्ध + श्रु + असुन् - सुपो धातुप्रातिपदिकयोः 2.4.71
वृद्ध + श्रु + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृद्ध + श्रो + अस् - सार्वधातुकार्धधातुकयोः 7.3.84
वृद्ध + श्रवस् - एचोऽयवायावः 6.1.78
वृद्धश्रवस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वृद्धश्रवास् + सु - अत्वसन्तस्य चाधातोः 6.4.14
वृद्धश्रवास् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृद्धश्रवास् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
वृद्धश्रवारु - ससजुषो रुः 8.2.66
वृद्धश्रवार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृद्धश्रवाः - खरवसानयोर्विसर्जनीयः 8.3.15