पाकशासनः

सुधाव्याख्या

पाकस्य दैत्यभेदस्य शासनः । शासयति । शासु अनुशिष्टौ (अ० प० से०) । णिजन्तात् (३.१.२६) नन्द्यादित्वात् (३.१.१३४) ल्युः ।


प्रक्रिया

धातुः - शासुँ अनुशिष्टौ


शास् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शास्+णिच् - हेतुमति च 3.1.26
शास् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
शास् + इ + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
शास् + ल्यु - णेरनिटि 6.4.51
शास् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शास् + अन - युवोरनाकौ 7.1.1
पाक + ङस् + शासन + सु - षष्ठी 2.2.8
पाकशासन - सुपो धातुप्रातिपदिकयोः 2.4.71
पाकशासन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पाकशासन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाकशासन + रु - ससजुषो रुः 8.2.66
पाकशासन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाकशासनः - खरवसानयोर्विसर्जनीयः 8.3.15