विडौजाः

सुधाव्याख्या

विडति । विड भेदने’ (तु० प० से०) । ‘इगुपध (३.१.१३५) इति कः । विडं भेदकमोजोऽस्य । सान्तः । विट्सु प्रजासु मनुष्येषु वा ओजोऽस्येति विडोजाः’ इति केचित् ।।


प्रक्रिया

धातुः - बिलँ भेदने


विड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विड् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
विड् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
विड + सु ओजस् + सु - अनेकमन्यपदार्थे 2.2.24
विड + ओजस् - सुपो धातुप्रातिपदिकयोः 2.4.71
विडौजस् - वृद्धिरेचि 6.1.88
विडौजस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विडौजस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विडौजास् + सु - अत्वसन्तस्य चाधातोः 6.4.14
विडौजास् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विडौजारु - ससजुषो रुः 8.2.66
विडौजार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विडौजाः - खरवसानयोर्विसर्जनीयः 8.3.15