तार्क्ष्यः

सुधाव्याख्या

तार्क्ष्यस्य कश्यपस्यापत्यम् । ऋष्यण् (४.१.११४) । बहुत्वे तार्क्ष्याः तृक्षस्यापत्यम् गर्गादित्वात् (४.१.१०५) यञ्वा । बहुत्वे । तृक्षाः इत्यन्ये । तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाग्रजे । अश्वकर्णाह्वयतरौ स्यात्तार्क्ष्यं तु रसानाञ्जने । अहौ च ||