संबरारिः

सुधाव्याख्या

संबरस्यारिः । क्लीबं तु संबरं नीवौ बौद्धव्रतविशेषयोः । विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च' इति दन्त्यादौ रभसः । शंवरं सलिले पुंसि मृगदैत्यविशेषयोः' इति तालव्यादौ मेदिनीकारात् । तालव्यादिरपि ॥