शौद्धोदनिः

सुधाव्याख्या

शुद्ध ओदनोऽस्येति । शकन्ध्वादिः (वा० ६.१.९४) । शुद्धोदनस्यापत्यम् । ‘अत इञ्’ (४.१.९५) ॥


प्रक्रिया

शुद्ध+सु ओदन+सु - अनेकमन्यपदार्थे 2.2.24
शुद्ध् ओदन - सुपो धातुप्रातिपदिकयोः 2.4.71
शुद्धोदन - शकन्ध्वादिषु पररूपं वक्तव्यम् । वार्तिकम् ।
शुद्धोदन+इञ् - अत इञ् 4.1.95
शौद्धोदन+इ - हलन्त्यम् 1.3.3,तस्य लोपः 1.3.9
शौद्धोदन्+इ - यस्येति च 6.4.148
शौद्धोदनि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शौद्धोदनि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शौद्धोदनि + रु - ससजुषो रुः 8.2.66
शौद्धोदनि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शौद्धोदनिः -खरवसानयोर्विसर्जनीयः 8.3.15