अमरकोशः


श्लोकः

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह । आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कदाचित् कदाचित् अव्ययम् कदा च चिच्च, अनयो: समाहारः तत्पुरुषः समासः तकारान्तः
2 जातु जातुः अव्ययम् जायति तुन् उणादिः उकारान्तः
3 सार्धम् सार्धम् अव्ययम् ऋध्यति कम् उणादिः मकारान्तः
4 साकम् साकम् अव्ययम् सह अकनम् अम् मकारान्तः
5 सत्रा सत्रा अव्ययम् सह त्रायते क्विप् कृत् आकारान्तः
6 समम् समम् अव्ययम् समति अम् मकारान्तः
7 सह सहः अव्ययम् सहते अच् कृत् अकारान्तः
8 प्राध्वम् प्राध्वम् अव्ययम् प्राध्वनति डम् मकारान्तः
9 वृथा वृथा अव्ययम् व्रियते थाक् आकारान्तः
10 मुधा मुधा अव्ययम् मुह्यति का आकारान्तः