अमरकोशः


श्लोकः

समन्ततस्तु परितः सर्वतो विष्वगित्यपि । अकामानुमतौ काममसूयोपगमेऽस्तु च ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समंततस् समंततस् अव्ययम् समन्तात् तसि तद्धितः सकारान्तः
2 परितस् परितस् अव्ययम् तसिल् तद्धितः सकारान्तः
3 सर्वतस् सर्वतस् अव्ययम् सर्वस्मात् तसिल् तद्धितः सकारान्तः
4 विष्वक् विष्वक् अव्ययम् विषु अञ्चति क्विन् कृत् ककारान्तः
5 कामम् कामम् अव्ययम् काम्यते अम् मकारान्तः
6 अस्तु अस्तुः अव्ययम् असति । अस्यति वा तुन् उकारान्तः