अमरकोशः


श्लोकः

सौधोऽस्त्री राजसदनमुपकार्योपकारिका । स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सौध सौधः पुंलिङ्गः, नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
2 राजसदन राजसदनम् नपुंसकलिङ्गः राज्ञः सदनं योग्यत्वात् । तत्पुरुषः समासः अकारान्तः
3 उपकार्य उपकार्या स्त्रीलिङ्गः उपक्रियते । ण्यत् कृत् अकारान्तः
4 उपकारिका उपकारिका स्त्रीलिङ्गः उपकरोति । ण्वुल् कृत् आकारान्तः
5 स्वस्तिक स्वस्तिकः पुंलिङ्गः, नपुंसकलिङ्गः स्वस्ति क्षेमं कायति । तत्पुरुषः समासः अकारान्तः
6 सर्वतोभद्र सर्वतोभद्रः पुंलिङ्गः, नपुंसकलिङ्गः सर्वतो भद्रमत्र ॥ अकारान्तः
7 नन्द्यावर्त नन्द्यावर्तः पुंलिङ्गः, नपुंसकलिङ्गः नन्दयतीति नन्दी आवर्तोऽत्र । बहुव्रीहिः समासः अकारान्तः