अमरकोशः


श्लोकः

क्षिप्ते मुखं नि:सरणं सन्निवेशो निकर्षणः । समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्रियाम् ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मुख मुखम् नपुंसकलिङ्गः खन्यते । अच् उणादिः अकारान्तः
2 नि:सरण नि:सरणम् नपुंसकलिङ्गः नि:सरन्त्यनेन । ल्युट् कृत् अकारान्तः
3 संनिवेश संनिवेशः पुंलिङ्गः संनिविशन्तेऽत्र । घञ् कृत् अकारान्तः
4 निकर्षण निकर्षणः पुंलिङ्गः कर्षणान्निर्गतः । अकारान्तः
5 संवसथ संवसथः पुंलिङ्गः संवसन्त्यत्र । अथच् उणादिः अकारान्तः
6 ग्राम ग्रामः पुंलिङ्गः ग्रसते । मन् उणादिः अकारान्तः
7 वेश्मभू वेश्मभूः स्त्रीलिङ्गः वेश्मनो भूः । तत्पुरुषः समासः ऊकारान्तः
8 वास्तु वास्तु पुंलिङ्गः, नपुंसकलिङ्गः वसन्त्यत्र । तुन् उणादिः उकारान्तः