अमरकोशः


श्लोकः

भारयष्टिः तदालम्बि शिक्यं काचोऽथ पादुका । पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भारयष्टि भारयष्टिः स्त्रीलिङ्गः भारस्य यष्टिः ॥ तत्पुरुषः समासः इकारान्तः
2 शिक्य शिक्यम् नपुंसकलिङ्गः तामालम्बितुं शीलमस्य । यत् उणादिः अकारान्तः
3 काच काचः पुंलिङ्गः कच्यतेऽत्र । घञ् कृत् अकारान्तः
4 पादुका पादुका स्त्रीलिङ्गः पद्यतेऽनया । उणादिः आकारान्तः
5 पादू पादू स्त्रीलिङ्गः पद्यतेऽनया । उणादिः ऊकारान्तः
6 उपानह् उपानह् स्त्रीलिङ्गः पादम् उपनह्यते, पादमुपनह्यति वा । क्विप् कृत् हकारान्तः
7 अनुपदीना अनुपदीना स्त्रीलिङ्गः अनुपदं पादायामप्रमाणा बद्धा । तद्धितः आकारान्तः